६.४२
आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वघस्य संभावयत्युत्पलपत्रसाराम् ॥
सञ्जीविनीटीका (मल्लिनाथः) आयोधन इति॥ यः प्रतीप आयोधने युद्धे कृष्णगतिं कृष्णवर्त्मानमग्निं सहायमवाप्य क्षत्रियाणां कालरात्रिम्। संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामददग्न्यपरशोः। द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः इत्यमरः (अमरकोशः २.८.९२ ) । शितां तीक्ष्णां धारां मुखम्। खङ्गादीनां च निशितमुखे धारा प्रकीर्तिताइति विश्वः। उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां संभावयति मन्यते। एतन्नगरजिगीषयागतान्रिपून्स्वयमेव धक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा दह्यन्ते च तथागताः शत्रव इति भारते (वन.अ.११७)कथानुसंधेया॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
यो ने कृष्ण तिं हा
वाप्य यः क्षत्रि का रा त्रिम्
धा रांशि तां राश्वस्य
सं भा त्युत्पत्र सा राम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.