६.४१
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति। ख्यात इति शेषः। एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः। येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभी रूढमुत्पन्नं श्रियः संबन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूपमयशो दुष्कीर्तिः प्रमृष्टं निरस्तम्। दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलप्रवादो मूढजनपरिकल्पित इत्यर्थः। अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्यान्व ये भूति रे जा तः
प्र ती त्या वृद्ध से वी
येश्रि यः संश्र दो रू ढं
स्व भा लो लेत्य शःप्र मृ ष्टम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.