६.३०
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ कुमार्यङ्गराजाञ्चक्षुरवतार्य। अपनीयेत्यर्थः। जन्यां मातृसखीम्। जन्या मातृसखीमुदोः इति विश्वः। सुनन्दां याहि गच्छेत्यवदत्। यातेति जन्यानवदत् इति पाठे-जनीं वधूं वहन्तीति जन्या वधूबन्धवः। तान्यात गच्छतेत्यवदत्। जन्यो वरवधूज्ञातिप्रियतुल्यहिते।ञपि च इति विश्वः। अथवा, -जन्या वधूभृत्याः। भृत्याश्चापि नवोढायाः इति केशवः। संज्ञायां जन्या (अष्टाध्यायी ४.४.८२ ) इति यत्प्रत्ययान्ते निपातः। यदत्राह वृत्तिकारः-जनीं वधूं वहन्तीति जन्या जामातुर्वयस्याः इति। यञ्चामरः-जन्याः स्निग्धा वरस्य ये इति। तत्सर्वमुपलक्षणार्थमित्यविरोधः। न चायमङ्गराजनिषेधो दृश्यदोषान्नापि द्रष्टृदोषादित्याह-नेत्यादिना॥ असावङ्गराजः काम्यः कमनीयो नेति न, किंतु काम्य एवेत्यर्थः। सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न, वेदेत्यर्थः। लोको जनो भिन्नरुचिर्हि रुचिरमपि किंचित्कस्मैचिन्न रोचते। किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
थाङ्ग रा जा तार्यक्षु
र्या हीति न्यात्कु मा री
ना सौ का म्यो वेम्य
ग्द्र ष्टुं सा भिन्नरु चिर्हि लो कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.