६.२९
निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि! तयोस्तृतीया ॥
सञ्जीविनीटीका (मल्लिनाथः) निसर्गेति॥ निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम्। सहावस्थानविरोधीत्यर्थः। श्रीश्च सरस्वती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितिर्यस्य तदेकसंस्थम्। उभयमिह संगतमित्यर्थः। हे कल्याणि!बाह्वादिभ्यश्च (अष्टाध्यायी ४.१.९६ ) इति ङीप्। कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्वत्यो स्तृतीया। समानगुणयोर्युवयोर्दांपत्यं युज्यत एवेति भावः। दक्षिणनायकत्वं चास्य ध्वन्यते-तदुक्तम्-तुल्योऽनेकत्र दक्षिणः इति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
निर्ग भि न्नास्प मे संस्थ
स्मिन्द्व यं श्रीश्चस्व ती
का न्त्यागि रा सूनृ या यो ग्या
त्व मे ल्याणि योस्तृ ती या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.