६.२८
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ॥
सञ्जीविनीटीका (मल्लिनाथः) अनेनेति॥ शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून्। अस्रमश्रुणि शोणिते इति विश्वः। प्रयासयता प्रस्तारयता। भर्तृवधादिति भावः। अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण विना हारा एव प्रत्यर्पिताः। अविच्छइन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमिवेत्युत्प्रेक्षा गम्यते ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ने र्या ताश्रु बि न्दू
न्मु क्ता स्थू मान्स्त नेषु
प्र त्यर्पि ताःत्रुवि लासि नी ना
मु न्मुच्य सू त्रेवि नै हा राः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.