६.२३
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥
सञ्जीविनीटीका (मल्लिनाथः) क्रियेति॥ अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्यात्, अविच्छिन्नादनुष्ठानादित्यर्थः। अजस्रं नित्यमाहूतसहस्रनेत्रः सन्, चिरं शच्या अलकान् पाण्डुकपोलयोर्लम्बान्स्रस्तान्। पचाद्यच्। मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार। प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति। प्रोषिते मलिना कृशा इति क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम्। हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका॥ (याज्ञ.१।३।८४) इति च स्मरणात् ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
क्रि याप्र न्धाध्व रा
णास्र मा हूस्र ने त्रः
च्याश्चि रं पाण्डु पो म्बा
न्म न्दा शू न्या कांश्च का
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.