६.२१
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥
सञ्जीविनीटीका (मल्लिनाथः) असाविति॥ असौ राजा। असौ इति पुरोवर्तिनो निर्देशः। एवमुत्तरत्रापि द्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः। इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य इति-नाथनिरुक्तिर्निर्मूलैव। अगाधसत्त्वो गम्भीरस्वभावः। सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः इति विश्वः। मगधा जनपदाः, तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः। प्रतिष्ठाकृत्यमास्पदम् इत्यमरः (अमरकोशः ३.३.१०१ ) । प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा, -प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्शत्रूंस्तापयतीति परंतपः परंतपाख्यः। द्विषत्परयोस्तापेः (अष्टाध्यायी ३.२.३९ ) । इति खच्प्रत्ययः। खचि ह्रस्वः (अष्टाध्यायी ६.४.९४ ) इति ह्रस्वः। अरुर्द्विषदजन्तस्य मुम् (अष्टाध्यायी ६.३.६७ ) इति मुमागमः। नामेति प्रसिद्धौ। यथार्थनामा। शत्रुसंतापनादिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
सौ ण्यः णोन्मु खा ना
गा त्त्वोप्र ति ष्ठः
रा जाप्र जाञ्जब्ध र्णः
रं पो ना थार्थ ना मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.