६.२०
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा। श्रुतवृत्तावंशेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका। कर्मण्यण्प्रत्ययः। टिड्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। प्राक् प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य संनिकर्षं समीपं नीत्वा पुंवत् पुंसा तुल्यम्। तेन तुल्यं क्रिया चेद्वतिः (अष्टाध्यायी ५.१.११५ ) इति वतिप्रत्ययः। अवदत् ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
तोनृ पा णांश्रु वृत्त वं शा
पुंत्प्र ल्भाप्रति हा क्षी
प्रा क्संनि र्षं धेश्वस्य
नी त्वाकु मा रीत्सु न्दा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.