६.१४
विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।
प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः ॥
सञ्जीविनीटीका (मल्लिनाथः) विस्रस्तमिति॥ विलसनशीलो विलासी। वौ कषलसकत्थस्रम्भः (अष्टाध्यायी ३.२.१४३ ) इति घिनुण्प्रत्ययः। अपरो राजा । अंसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्ब मृजुलम्बिनीं स्रजम्। प्रालम्बमृजुलम्बि स्यात्कण्ठात् इत्यमरः (अमरकोशः २.६.१३७ ) प्रावारम् इति पाठे तूत्तरीयं वस्त्रम्। उत्कृष्योद्धृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन्, यथावकाशं स्वस्थानं निनाय। प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्ये- इति नृपाभिप्रायः। गोपनीयं किंचिदङ्गेऽस्ति ततोऽयं प्रावृणुते-इतीन्दुमत्यभिप्रायः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
वि स्रस्त मं सा रोवि ला सी
त्नानु वि द्धाङ्ग कोटि ग्नम्
प्राम्ब मु त्कृष्य था का शं
नि ना सा चीकृ चारु क्त्रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.