६.१
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहानस्थानुपचारवत्सु ।
वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपकरणवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान् मनोज्ञवेषान् मनोहरनेपथ्यान् वैमानिकानां विमानैश्चरताम्। चरति (अष्टाध्यायी ४.४.८ ) इति ठक्प्रत्ययः। मरुताममराणाम्। मरुतौ पवनामरौ इत्यमरः (अमरकोशः ३.३.६६ ) । आकृष्टलीलान् गृहीतसौभाग्यान्। आकृष्टमरुल्लीलानित्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः। तान्भूपालानपश्यत्। सर्गेऽस्मिन्नुपजातिश्छन्दः ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
त्र ञ्चेषु नोज्ञ वे
षा न्सिं हा स्थानु चात्सु
वै मानि का नांरु ताश्य
दा कृष्ट ली लान्न लो पा लान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.