५.७२
शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरश्रृङ्खलकर्षिणस्ते ।
येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥
सञ्जीविनीटीका (मल्लिनाथः) शय्यामिति॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीताऽपगता निद्रा येषां त उभयपक्षविनीतनिद्राः। अत्र समासविषय उभशब्दस्थाने उभय शब्दप्रयोग एव साधुरित्यनुसंधेयम्। यथाह कैयटः--"उभादुदात्तो नित्यम्" इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो मा भूत्। उभयशब्दस्यैव यथा स्यात्। उभयपुत्र इत्यादि भवति इति। मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः। स्तम्बकर्णयो रमिजपाः (अष्टाध्यायी ३.२.१३ ) इत्यच्प्रत्ययः। हस्तिसूचकयोः(वा.१९९४)इति वक्तव्यात्। इभः स्तम्बेरमः पद्मी इत्यमरः (अमरकोशः २.८.३५ ) तत्पुरुषे कृति बहुलम् (अष्टाध्यायी ६.३.१४ ) इति सप्तम्या अलुक्। शय्यां जहति त्यजन्ति येषां स्तम्बेरमाणाम्। दन्ताः कोशाः इव दन्तकोशाः। दन्तकुडम्भलास्तरुणारुणरागयोगाद्बालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रागैरिकतटा इव विभान्ति। धातुरक्ता इव भान्तीत्यर्थः॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
य्यांत्युक्षवि नी नि द्राः
स्त म्बे मामु श्रृङ्खर्षि स्ते
ये षांवि भान्तिरु णारु रा यो गा
द्भि न्नाद्रि गैरि टान्त को शाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.