५.७१
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर! याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति? ॥
सञ्जीविनीटीका (मल्लिनाथः) यावदिति॥ प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति। आङउद्गमने (अष्टाध्यायी १.३.४० ) इत्यात्मनेपदम्। तावत्। भानावनुदित एवेत्यर्थः। अह्नाय झिटिति। द्राग्झटित्यञ्जसाह्राय इत्यमरः (अमरकोशः २.८.१०३ ) । अरुणेनानूरुणा। सूर्यसूतोऽरुणोऽनूरुः इत्यमरः (अमरकोशः २.८.१०३ ) । तमो निरस्तम्। तथा हि- हे वीर। त्वय्यायोधनेषु युद्धेषु। युद्धमायोधनं जन्यम् इत्यमरः (अमरकोशः २.८.१०३ ) । अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून् स्वयमुच्छिनत्ति किं वा? नोच्छिनत्त्येवेत्यर्थः। न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
यात्प्र तानिधि राक्र ते भानु
ह्ना तारु णे मोनि स्तम्
यो नाग्र तांत्वयि वी या ते
किं वारि पूंस्तगु रुःस्व मुच्छित्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.