५.७
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कञ्चिन्मृगीणामनघा प्रसूतिः ॥
सञ्जीविनीटीका (मल्लिनाथः) क्रियेति॥ क्रियानिमित्तेष्वप्यनुष्टानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्नेहादभग्नकामाऽप्रतिहतेच्छा। तेषां मुनीनामङ्का एव शय्यास्तासु च्युतानि नाभिनालानि यस्याः सा तथोक्ता मृगीणां प्रसीतिः संततिरनघाऽव्यसना कञ्चित्? अनपायिनी किमित्यर्थथः। दुःखैनोव्यसनेष्वघम् इति यादवः। ते हि व्यालभयाद्दशरात्रमङ्क एव धारयन्ति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
क्रि यानि मि त्तेष्वपित्स त्वा
ग्न का मामुनि भिःकु शेषु
ङ्क य्याच्यु नाभि ना ला
ञ्चिन्मृ गी णा घाप्र सू तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.