५.६
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कञ्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥
सञ्जीविनीटीका (मल्लिनाथः) आधारेति॥ आधारबन्धप्रमुखैरालवालनिर्माणादिभिः प्रयत्नैरुपायैः। आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च इति विश्वः। सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपादपानां वाय्वादिः। आदिशब्दाद्दावानलादिः। उपप्लवो बाधको न कञ्चिन्नास्ति किम्? ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
धा न्धप्रमु खैःप्र त्नैः
संर्धि ता नांसु निर्वि शे षम्
ञ्चिन्न वा य्वादिरुप्ल वो वः
श्रच्छि दा माश्र पा पा नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.