५.६८
तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥
सञ्जीविनीटीका (मल्लिनाथः) तदिति॥ तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन। वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत् इति विश्वः। युगपत्तावदुन्मिषितेन युगपदेवोन्मीलनेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम्। प्रार्थनायां लोट्। के द्वे? अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम्। तारकाक्ष्णः कनीनिका इत्यमरः (अमरकोशः २.६.९३ ) । तव चक्षुः। अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च। युगपदुन्मिषिते सति संपूर्णसादृश्यलाभ इति भावः ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
द्वल्गु नायु दुन्मिषि ते ता
त्स द्यःस्पतु लाधि रो तां द्वे
प्र स्पन्द मारु षे तान्त
श्च क्षुस्तप्रलिभ्र रं द्मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.