५.६६
रात्रिर्गता मतिमतां वर! मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।
तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी ॥
सञ्जीविनीटीका (मल्लिनाथः) रात्रिरिति॥ हे मतिमतां वर! निर्धारणे षष्टी। रात्रिर्गता। शय्यां मुञ्च। विनिद्रो भवेत्यर्थः। विनिद्रत्वे फलमाह-धात्रेति॥ धात्रा ब्रह्मणा जगतो धूर्भारः धूः स्याद्यानमुखे भारे इति यादवः। द्विधैव। द्वयोरेवेत्यर्थः। एवकारस्तृतीयनिषेधार्थः। विभक्ता ननु विभज्य स्थापिता खलु। तत्कितम आह-तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन् बिभर्ति। तस्या धुरो भवान्। धुरं वहतीति धुर्यो भारवाही। तस्य पदं वहनस्थानम्। अपरं यद्धुर्यपदं तदवलम्बी। ततो विनिद्रो भवेत्यर्थः। न ह्युभयवाह्यमेको वहतीति भावः॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
रा त्रिर्ग ताति तां मुञ्च य्यां
धा त्राद्वि धैनु धूर्ज तोवि क्ता
ता मेस्तबिर्तिगु रुर्वि निद्र
स्त स्या वा धुर्य दा म्बी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.