५.६५
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ कर्णभूषणाभ्यां निपीडितौ पीवरौ२ पीनावंसौ यस्य तम्। शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विरलोऽङ्गरागो यस्य तम्। न त्वङ्गनासङ्गादिति भावः। प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः। वैतालिकाः इति वा पाठः। वैतालिका बोधकराः इत्यमरः (अमरकोशः २.८.९७ ) । वाग्भिः स्तुतिपाठैः। उषसि। प्राबोधयन् प्रबोधयामासुः ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
तंर्ण भूनि पीडि पी रां सं
य्योत्तच्छविर्दकृ शाङ्ग रा गम्
सू तात्म जाः सःप्रथिप्र बो धं
प्रा बोन्नुसि वाग्भिरु दा वा चः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.