५.५
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कञ्चिन्महर्षेस्त्त्रिविधं तपस्तत् ॥
सञ्जीविनीटीका (मल्लिनाथः) कायेनेति॥ कायेनोपवासादिकृच्छ्रचान्द्रायणादिना वाचा वेदपाठेन मनसा गायत्रीजपादिना कायेन वाचा मनसापि करणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि। स्वपदापहारशङ्काजनकमित्यर्थः। यत्तपः शश्वदसकृत्। मुहुः पुनः पुनः शश्वदभीक्ष्णससकृत्समाः इत्यमरः। संभृतं संचितं महर्षेर्वरतन्तोस्त्त्रिविधं वाङ्मनः कायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरः शापैर्व्ययं नाशं नापाद्यते कञ्चित् न नीयते किम्? कञ्चित् कामप्रवेदने इत्यमरः॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
का ये वा चा सापिश्व
द्य त्संभृ तं वा धैर्य लोपि
पाद्य तेव्यन्त रा यैः
ञ्चिन्म र्षेस्त्त्रिवि धं स्तत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.