५.५२
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरः स्थलतारहारः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ प्रभावेनोपनतैः प्राप्तैः कल्पद्रुमोत्थैः कल्पवृक्षोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उरःस्थले ये तारहाराः स्थूलमुक्ताहारास्ते येन स तथोक्तः। वाचोऽस्य सन्तीति वाग्मी वक्ता। वाचो ग्मिनिः (अष्टाध्यायी ५.२.१२४ ) इति ग्मिनिप्रत्ययः। स पुरुष उवाच ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
प्र भा वो तैःकु मा रं
ल्पद्रु मो त्थै कीर्य पु ष्पैः
वा वा ग्मीप्र भा भिः
संर्धि तो रःस्थ ता हा रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.