५.५३
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥
सञ्जीविनीटीका (मल्लिनाथः) मतङ्गेति॥ अवलेपमूलाद्गर्वहेतुकात्। अवलेपस्तु गर्वे स्याल्लेपने द्वेषणेऽपि च इति विश्वः। मतङ्गस्य मुनेः शापान्तमङ्गजत्वमवाप्तवानस्मि। मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम्। स्त्त्रियां मूर्तिस्तनुस्तनूः इत्यमरः। तन्वादेर्वा (अष्टाध्यायी ३.१.७९ ) इत्यूङिति केचित्। प्रियंवदं प्रियंवदाख्यमवेहि जानीहे। प्रियं वदतीति प्रियंवदः। प्रियवशे वदः खच् (अष्टाध्यायी ३.२.३८ ) इति खच्प्रत्ययः ॥
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
ङ्ग शा पा ले मू ला
वाप्त वास्मिङ्ग त्वम्
वेहि न्धर्व तेस्त नू जं
प्रि यं दं मांप्रिर्शस्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.