५.४९
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स गजः। छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः युगं वहन्तीति युग्या वाहा यस्मिन्सः। स चासौ शून्यश्च तम्। भग्ना अक्षा रथावयवदारुविशेषाः। अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रियम् इति शाश्वतः। येषां ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिंस्तम्। रामाणां स्त्त्रीणां परित्राणे संरक्षणे विहस्ता व्याकुलाः। विहस्तव्याकुलौ समौ इत्यमरः (अमरकोशः ३.१.४३ ) । योधा यस्मिंस्तं सेनानिवेशं शिबिरं क्षणेन तुमुलं संकुलं चकार ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
च्छिन्न न्धद्रु युग्य शू न्यं
ग्नाक्ष र्यस्त थंक्ष णे
रा मा रि त्राविस्त यो धं
से नानि वे शंतुमु लं का
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.