५.४८
सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥
सञ्जीविनीटीका (मल्लिनाथः) सप्तच्छदेति॥ सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत् कटुः सुरभिः प्रवाहः प्रसारो यस्य तम्। कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः इति यादवः। असह्यं तदीयं मदमाघ्राय सेनागजेन्द्राः। विलङ्घितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान् यत्नो यैस्ते तथोक्ताः सन्तः। आधोरणा हस्तिपका हस्त्यारोहा निषादिनः इत्यमरः (अमरकोशः २.८.५९ ) । विमुखाः पराङ्मुखा बभूवुः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
प्तच्छ क्षी टुप्र वा
ह्य मा घ्रा दं दी यम्
विङ्घि ता धो तीव्र त्नाः
से ना जे न्द्राविमु खा भू वुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.