५.४४
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥
सञ्जीविनीटीका (मल्लिनाथः) निःशेषेति॥ कथंभूतो गजः? निःशेषविक्षालितधातुनापि धौतगैरिकादिनापि। नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्वुरेण। चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे इत्यमरः (अमरकोशः १.५.१८ ) । अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः तस्य तटेषु वप्रक्रियां वप्रक्रीडाम्। उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते इति शब्दार्णवः। शंसन् कथयन्। सूचयन्नित्यर्थः। युग्मम्॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
निः शे वि क्षालि धातु नापि
प्रक्रि या मृक्षस्त टेषु
नी लोर्ध्व रे खा ले शं
न्द न्तद्व ये नाश्मवि कुण्ठि ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.