५.४३
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथोपरिष्टादूर्ध्वम्। उपर्युपरिष्टात् (अष्टाध्यायी ५.३.३१ ) इति निपातः। भ्रमद्भिः। मदलोभादिति भावः। भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तः सलिले प्रवेशो यस्य स तथोक्तः। निर्धौतदाने क्षालितमदे अत एव, अमले गण्डिभित्ती यस्य स तथोक्तः। दानं गजमदे त्यागे इति शाश्वतः। प्रशक्तौ गण्डौ गण्डभित्ती। प्रशंसावचनैश्च (अष्टाध्यायी २.१.६६ ) इति समासः। भित्तिशब्दः प्रशस्तार्थः। तथा च गणरत्नमहोदधौ-ौमतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तयः इति। भित्तिः प्रदेशो वा । भित्तिः प्रदेशे कुड्येऽपि इति विश्वः। निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा। वन्यो गजः सरित्तो नर्मदायाः सकाशात्। पञ्चम्यास्तसिल्प्रत्ययः। उन्ममज्जोत्थितः॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
थो रि ष्टाद्भ्र रैर्भ्र द्भिः
प्रा क्सूचि ता न्तःलिप्र वे शः
नि र्धौ दा नाण्ड भित्ति
र्व न्यः रि त्तोन्मज्ज
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.