५.३
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ विधिज्ञः शास्त्त्रज्ञः। अकरणे प्रत्यवायभीरुरित्यर्थः। मानधनानामग्रयाय्यग्रेसरः। अपयशोभीरुरित्यर्थः। कृत्यवित् कार्यज्ञः। आगमन प्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित्। विशांपतिर्मनुजेश्वरः। द्वौ विशौ वैश्यमनुजौ इत्यमरः (अमरकोशः ३.३.२२५ ) । विष्टरभाजमासनगतम्। उपविष्टमित्यर्थः। विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् इत्यमरः। वृक्षासनयोर्विष्टरः (अष्टाध्यायी ८.३.९३ ) इति निपातः। तं तपोधनं विधिवद्विध्यर्हम्। यथाशास्त्त्रमित्यर्थः। तदर्हम् (अष्टाध्यायी ५.१.११७ ) इति वतिप्रत्ययः। अर्चयित्वा। आरात् समीपे। आराद्दूरसमीपयोः इत्यमरः (अमरकोशः ३.३.२२५ ) । कृताञ्जलिः सन्। इति वक्ष्यमाणप्रकारेणोवाच ॥
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१०११
र्च यि त्वाविधिद्वि धिज्ञ
स्त पो नं मा नाग्र या यी
वि शां ति र्विष्ट भा मा रा
त्कृ ताञ्ज लिः कृत्यवि दित्यु वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.