५.२
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्ध्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ अनर्घशीलोऽमूल्यस्वभावः। असाधारणस्वभाव इत्यर्थः। मूल्ये पूजाविधआवर्धः इति। शीलं स्वभावे सद्वृत्ते इति चामरशाश्वतौ। यशसा कीर्त्या। प्रकाशत इति प्रकाशः। पचाद्यच्। अतिथिषु साधुरातिथएयः। पथ्यतिथिवसतिस्वपतेर्ढञ (अष्टाध्यायी ४.४.१०४ ) इति ढञ्। स रघुः। हिरण्यस्य विकारो हिरण्मयम्। दाण्डिनायन- (अष्टाध्यायी ६.४.१७४ ) आदिसूत्रेण निपातः। वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात्। यज्ञस्य सर्वस्वदक्षिणाकत्वादिति भावः। मृण्मये मृद्विकारे पात्रे। अर्घार्थमिदमर्घअयम्। पादार्घाभ्यां च (अष्टाध्यायी ५.४.२५ ) इति यत्। पूजार्थं द्रव्यं निधआय श्रुतेन शास्त्त्रेण प्रकाशं प्रसिद्धम्। श्रूयत इति श्रुतं वेदशास्त्त्रम्।श्रुतं शास्त्त्रावधृतयोः इत्यमरः (अमरकोशः २.७.३६ ) । अतिथिमभ्यागतं कौत्सम्। अतिथिर्ना गृहागते इत्यमरः (अमरकोशः २.७.३६ ) । प्रत्युज्जगाम ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मृण्म ये वीहिण्म त्वा
त्पा त्रेनि धा यार्ध्यर्घ शी लः
श्रुप्र का शं साप्र का शः
प्र त्युज्ज गा मातिथि माति थे यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.