५.२६
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥
सञ्जीविनीटीका (मल्लिनाथः) तथेतीति॥ अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः सन्, तस्य रघोरवितथममोघं संगरं प्रतिज्ञाम्। अथ प्रतिज्ञाजिसंविदापत्सु संगरः इत्यमरः। तां गिरम् इति केचित्पठन्ति। तथेति प्रत्यग्रहीत्। रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
थेति स्यावि थंप्र ती तः
प्र त्यग्र ही त्संग्र न्मा
गा मात्त सा रांघुप्य वेक्ष्य
नि ष्क्रष्टु र्थं मेकु बे रात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.