५.२४
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥
सञ्जीविनीटीका (मल्लिनाथः) गुर्वर्थमिति॥ श्रुतस्य पारं दृष्टवाञ्च्छ्रुतपारदृश्वा। दृशेः क्वनिप् (पा३।२।९४) इति क्वनिप्। गुर्वर्थं गुरुदक्षिणार्थं यथा तथाऽर्थी याचकः। विशेषणद्वयेनाप्यस्याप्रत्याख्येयत्वमाह। रघोः सकाशात् कामं मनोरथमनवाप्याप्राप्य वदान्यान्तरं तात्रन्तरं गतः। स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे इत्यमरः (अमरकोशः ३.१.६ ) । इत्येवंरेूपोऽयं परीवादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्माऽस्तु। रघोः इति स्वनामग्रहणं संभावितत्वद्योतनार्थम्। तथा च(भ.गी.२।३४)-संभावितस्य चाकीर्तिर्मरणादतिरिच्यते इति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
गु र्वर्थ र्थीश्रु पा दृ श्वा
घोः का शा वाप्य का मम्
तो दा न्यान्त मित्य यं मे
मा भूत्प री वा वा ता रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.