५.१
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ विश्वजिति विश्वजिन्नाम्र्यध्वरे यज्ञे। यज्ञः सवोऽध्वरो यागः इत्यमरः (अमरकोशः २.७.१५ ) । निःशेषं विश्राणितं दत्तम्। श्रण दानेचुरादिः। कोशानामर्थराशीनां जातं समूहो येन तं तथोक्तम्। कोशोऽस्त्त्री कुड्भले खङ्गपिधानेऽर्यौघदिव्ययोः इत्यमरः (अमरकोशः २.७.१५ ) जातं जनिसमूहयोः इति शाश्वतः। एतेन कौत्सस्यानवसरप्राप्तिं सूचयति। त्तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः। ऋष्यन्धक- (अष्टाध्यायी ४.१.११४ ) इत्यण्। इञोऽपवादः। गुरुदक्षिणार्थी। पुष्करादिभ्यो देशे (अष्टाध्यायी ५.२.१३५ ) इत्यत्रार्थाञ्चासंनिहिते तदन्ताञ्चेतीनेः। अप्रत्याख्येय इति भावः। प्रपेदे प्राप। अस्मिन्सर्गे वृत्तमुपजातिः। तल्लक्षणं तु-स्यादिन्द्रवज्रा यदि तौ जगौ गः। उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीथावुपजातयस्ताः इति॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ध्व रे विश्वजि तिक्षि ती शं
निः शे वि श्राणि को जा तम्
पात्त वि द्योगुरुक्षि णा र्थी
कौ त्सःप्र पे देन्तु शि ष्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.