५.१६
स्थाने भवानेकनराधिपः सन्निकिंचनत्वं मखजं व्यनक्ति ।
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥
सञ्जीविनीटीका (मल्लिनाथः) स्थान इति॥ भवानेकनराधिपः सार्वभौमः सन्। मखजं मखजन्यम्। न विद्यते किंचन यस्येत्यकिंचनः। मयूरव्यंसकादित्वात्तत्पुरुषः। तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति। स्थाने युक्तम्। युक्ते द्वे सांप्रतं स्थाने इत्यमरः । तथा हि-सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाघ्यतरो हि वरः खलु। मणिः शाणोल्लीढः समरविजयी हेति निहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः। क्रलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चिर्थिषु नृपाः॥ (भर्तृ.२।४४) इति भावः। अत्र कामन्दकः-धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते। सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव ॥ इति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्था ने वा ने राधि पः
न्नि किं त्वं जंव्यक्ति
र्या पीस्यसु रैर्हि मां शोः
लाक्ष यः श्लाघ्य रोहि वृ द्धेः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.