५.१३
सर्वत्र नो वार्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥
सञ्जीविनीटीका (मल्लिनाथः) सर्वत्रेति॥ हे राजन्! त्वं सर्वत्र नोऽस्माकं वार्तं स्वास्थ्यमवेहि जानीहि। वार्तं वल्गुन्यरोगे च इत्यमरः (अमरकोशः १.८.३ ) वार्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम् इति यादवः। न चैतदाश्चर्यमित्याह-नाथ इति। त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः? तथा हि-अर्थान्तरं न्यस्यति सूर्य इत्यादिना। सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः। तमिस्रं तिमिरं रोगे तमिस्रा तु समस्ततौ । कृष्णपक्षे निशायां च इति विश्वः। तमिस्रम् इति पाठे तमिस्रं तिमिरम्। तमिस्रं तिमिरं तमः इत्यमरः (अमरकोशः १.८.३ ) । लोकस्य जनस्य। लोकस्तु भुवने जने इत्यमरः (अमरकोशः १.८.३ ) । दृष्टेरावरणाय कथं कल्पेत? दृष्टिमावरितुं नालमित्यर्थः। क्लृपेरलमर्थत्वात्तद्योगे नमःस्वस्ति- (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी। अलमिति पर्याप्त्यर्थग्रहणम् इति भगवान्भाष्यकारः। कल्पेत। संपद्येत। न कल्पत इत्यर्थः। क्लृपि संपद्यमाने चतुर्थी (वा.१४५९) इति वक्तव्यात् ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
र्वत्र नो वार्त वेहि रा
न्ना थेकु स्त्वय्यशु भंप्र जा नाम्
सू र्ये त्या णा दृ ष्टेः
ल्पे लोस्य थं मि स्रा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.