४.५१
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ असह्येति च॥ युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्इत्यमरः। स्तनपक्षे, -प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य।निर्वेशो भृतिभोगयोःइत्यमरः (अमरकोशः ३.३.२२६ ) । उदकान्यस्य सन्तीत्युदन्वानुदधिः।उदन्वानुदधौ चइति (अष्टाध्यायी ८.२.१३ ) निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्।स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन(अष्टाध्यायी २.१.३९ ) इति समासः।पञ्चम्याः स्तोकादिभ्यः` (अष्टाध्यायी ६.३.३ ) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि र्विश्य था का मं
टे ष्वा लीन्द नौ
स्त नाविदि स्त स्याः
शै लौर्दु रौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.