४.५
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण मेजे साम्राज्यदीक्षितम् ॥
सञ्जीविनीटीका (मल्लिनाथः) छायेति॥ अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते-पद्मा लक्ष्मीः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया इत्यमरः (अमरकोशः १.१.३१ ) । सा स्वयमदृश्या किल। किल इति संभावनायाम्। सती छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन। न तु स्वरूपतो दृश्येन। छायामण्डलम् इत्यनेनानातपज्ञानं लक्ष्यते। छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः इत्युभयत्राप्यमरः। पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे। अन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
छा याण्ड क्ष्ये
दृ श्याकिस्व यम्
द्मा द्मा त्रे
मे जे सा म्राज्य दीक्षि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.