४.६
परिकल्पितसांनिध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥
सञ्जीविनीटीका (मल्लिनाथः) परिकल्पितेति॥ सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु। नित्यवीप्सयोः (अष्टाध्यायी ८.१.४ ) इति वीप्सायां द्विर्वचनम्। बन्दिषु परिकल्पितसांनिध्या कृतसंनिधाना सती स्तुत्यं स्तोत्रार्हं तं रघुम्। अर्थ्याभिरर्थादनपेताभिः। धर्मपथ्यर्थन्यायादनपेते (अष्टाध्यायी ४.४.९२ ) इति यत्प्रत्ययः। स्तुतिभिः स्तोत्रैः। उपतस्थे। देवताबुद्ध्या पूजितवतीत्यर्थः। देवतात्वं च-ना विष्णुः वृथिवीपतिः इति वा लोकपालात्मकत्वाद्वेत्यनुसंधेयम्। एवं च सतिउपाद्देवपूजासंगतिकरणमित्रकरणपथिषु(वा.९१४) इति वक्तव्यादात्मनेपदं सिद्ध्यति॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रिल्पि सां नि ध्या
का ले का लेन्दिषु
स्तु त्यंस्तुतिभि र्थ्याभि
रु स्थेस्व ती
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.