४.४८
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥
सञ्जीविनीटीका (मल्लिनाथः) भोगीति॥ चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनान्निम्रेषु समर्पितं सञ्जितं त्रिपदीच्छेदिनां पादशृङ्खलच्छेदकानामपि। ग्रीवाभ्योऽण्च (अष्टाध्यायी ४.३.५७ ) इत्यण्प्रत्ययः। नास्रसन्न स्रस्तमभूत्। द्युद्भ्यो लुङि (अष्टाध्यायी १.३.९१ ) इति परस्मैपदम्। पुषादित्वादङ्। अनिदिताम्- (अष्टाध्यायी ६.४.२४ ) इति नकारलोपः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भोगि वेष्ट मा र्गेषु
न्द ना नांर्पि तम्
नास्रत्करि णां ग्रै वं
त्रि दी च्छेदि नापि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.