४.४६
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥
सञ्जीविनीटीका (मल्लिनाथः) बलैरिति॥ विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः। बलं शक्तिर्बलं सैन्यम्इति यादवः। मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ता ह्रारीताः पक्षिविशेषा यासुताः। तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः इत्यमरः (अमरकोशः २.५.३७ ) । मलयाद्रेरुपत्यका आसन्नभूमयः। उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका इत्यमरः (अमरकोशः २.५.३७ ) उपाधिभ्यां त्यकन्- (अष्टाध्यायी ५.४.३४ ) इत्यादिना त्यकन्प्रत्ययः। अध्युषिताः। उपत्यकासूषितमित्यर्थः। उपान्वध्याङ्वसः (अष्टाध्यायी १.४.४८ ) इति कर्मत्वम्॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
लैध्युषि ता स्तस्य
विजि गी षोर्ग ताध्व नः
मा री चो द्भ्रान्त हा री ता
या द्रेरुत्य काः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.