४.४५
स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स रघुः गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना। गन्धस्येत्- (अष्टाध्यायी ५.४.१३५ ) इत्यादिनेकारादेशः समासान्तः। यद्यपि गन्धस्येत्वेः तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिग्धविवक्षायामेवेकारादेशः, तथापि निरङ्कुशाः कवयः। तथा च माघकाव्ये(६।५०)-ववुरयुक्छदगुच्छसुगन्धयः सततगास्तगानगिरोऽलिभिः, नैषधे च (३।९३)-अपां हि तृप्ताय न वारिधाराः स्वादुसुगन्धिः स्वदते तुषाराइति। न कर्मधारयान्मत्वर्थीय इति निषेधादिनिप्रत्ययपक्षोऽपि जघन्य एव। सेनायां समवेताः सैन्याः। सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते इत्यमरः (अमरकोशः २.८.६१ ) सेनाया वा (अष्टाध्यायी ४.४.४५ ) इति ण्यप्रत्ययः। तेषां परिभोगेन कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत्। संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सैन्यरि भो गे
दासुन्धि ना
का वे रींरि तां त्युः
ङ्क नी यामि वा रोत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.