४.४४
ततो वेलातटेनैव फलवत्पूगमालिना ।
अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततः प्राचीविजयानन्तरं फलवत्पूगमालिना फलितक्रमुकश्रेणीमता। व्रीह्यादित्वादिनिप्रत्ययः। वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येनाचरितामाशां दक्षिणां दिशमनाशास्यजयः। अयत्नसिद्धत्वादप्रार्थनीयजयः सन्। ययौ। अगस्त्यो दक्षिणमाशामाश्रित्य नभसि स्थितः। वरुणस्यात्मजो योगी विन्धअय वातापिमर्दनः इति ब्रह्मपुराणे ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तो वे ला टे नै
त्पू मालि ना
स्त्यारि ता मा शा
ना शास्य यो यौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.