४.२४
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥
सञ्जीविनीटीका (मल्लिनाथः) सरित इति॥ सरितो गाधाः सुप्रतराः कुर्वती। पथो मार्गांश्चाश्यानकर्दमाञ्शुष्कपङ्कान् कुर्वंती। संयोगादेरातो धातोर्यण्वतः (अष्टाध्यायी ८.४.४३ ) इति श्यतेर्निष्ठातस्य नत्वम्। शरच्छरदृतुस्तं रघुं शक्तेरुत्साहृशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास। प्रभुमन्त्त्रशक्तिसंपन्नस्य शरत् स्वयमुत्साहमुत्पादयामासेत्यर्थः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रि तः कुर्व ती गा धाः
श्चा श्यार्द मान्
या त्रा यै चो या मा
तं क्तेःप्र मं रत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.