४.२३
प्रसवैः सप्तपर्णानं मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रसवैरिति॥ मदस्यैव गन्धो येषां तैर्मदगन्धिभिः। उपमानाञअच (अष्टाध्यायी ५.४.१३७ ) इतीकारः समासान्तः। सप्तपर्णानां वृक्षविशेषाणाम्। सप्तपर्णो विशालत्वक्शारदो विषमच्छदः इत्यमरः (अमरकोशः २.४.२३ ) । प्रसवैः पुष्पैराहतास्तस्य रघोर्नागागजाः। गजेऽपि नागमातङ्गौ इत्यमरः (अमरकोशः २.४.२३ ) । असूययेवाहतिनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः। प्रतिगजगन्धाभिमानादिति भावः। करात्कटाभ्यां मेढाञ्च नेत्राभ्यां च मदस्रुतिः इति पालकाप्ये। करान्नासारन्ध्राभ्यामित्यर्थः॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र वैःप्त र्णा नं
न्धिभि रा ताः
सू ये न्ना गाः
प्त धैप्र सुस्रु वुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.