३.९
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् ।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥
सञ्जीविनीटीका (मल्लिनाथः) निधानेति॥ नृपः ससत्त्वामापन्नसत्त्वाम्। गर्भिणीमित्यर्थः। आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी इत्यमरः (अमरकोशः २.६.२२ ) । महिषीम्। निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम्। भूमिमिवेत्यर्थः;भूतधात्री रत्नगर्भा विपुला सागराम्बरा इति कोशः। अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव। शमीतरौ वह्निरस्तीत्यत्र लिङ्गं-शमीगर्भादग्निं मथ्नन्तीति। अन्तः सलिलामन्तर्गतजलां सरस्वतीं नदीमिव। अमन्यत। एतेन गर्भस्य भाग्यवत्त्व-तेजस्वित्व-पावनत्वानि विवक्षितानि ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
नि धा र्भामि सा राम्ब रां
मीमि वा भ्यन्त ली पा काम्
दीमि वा न्तःलि लांस्व तीं
नृ पः त्त्वांहि षीन्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.