३.१०
प्रियानुरागस्य मनः समुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रियेति॥ धीरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वाऽर्जितानाम्, न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृत्तेः पुत्रो मे भविष्यतीति संतोषस्य च, धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु इति विश्वः। सदृशीरनुरूपाः। पुमान् सूयतेऽनेनेति पुंसवनम्। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। आदि- शब्देनानवलोभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनम्। यदहः पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात् (१।१६।३) इति पारस्करः। चतुर्थेऽनवलोभनम्(१।१४) इत्याश्वलायनः । षष्ठेऽष्टमे वा सीमन्तोन्नयनं (आचार.११) इति याज्ञवल्क्यः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
प्रि यानु रास्य नः मुन्न ते
र्भु जार्जि ता नांदिन्त सं दाम्
थाक्र मं पुं नादि काःक्रि या
धृ तेश्च धी रःदृ शीर्व्यत्त सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.