३.५१
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा। अपभयो निर्भीकः सन्। पुनः पुरंदरं बभाषे। किमिति? हे देवेन्द्र! यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः। सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु इत्यमरः (अमरकोशः ३.३.२७ ) । तर्हि शस्त्रं गृहाण। भवान् रघुं मामनिर्जित्य। कृतमनेनेति कृती। कृतकृत्यो न खलु। इष्टादिभ्यश्च (अष्टाध्यायी ५.२.८८ ) इतीनिप्रत्ययः। रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम्॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
तःप्र स्या यःपु रं रं
पुर्ब भा षेतुस्यक्षि ता
गृ हा स्त्त्रंदिर्ग ते
ल्व नि र्जित्य घुंकृ ती वान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.