३.५
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ॥
सञ्जीविनीटीका (मल्लिनाथः) नेति॥ मगधस्य राज्ञोऽपत्यं स्त्त्री मागधी सुदक्षिणा। व्द्यञ्मगधकलिङ्गसूरमसादण् (अष्टाध्यायी ४.१.१७० ) इत्यण्प्रत्ययः। ह्रिया किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आदृतवान्। कर्तरि क्तः। आदृतौ सादरार्चितौ इत्यमरः (अमरकोशः ३.३.९२ ) । प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ। लट् स्मे (अष्टाध्यायी ३.२.११८ ) इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
मेह्रि या शंति किंचि दीप्सि तं
स्पृ हा तीस्तुषु केषु मा धी
तिस्म पृ च्छत्यनु वे मादृ तः
प्रि या खी रुत्त को लेश्व रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.