३.४
दिवं मरुत्वानिव भोक्ष्यते भुवं दिग विश्रान्तरथो हि तत्सुतः ।
अतोऽभिलाषे प्रथमं तथाविधे मनो बवन्धान्यरसान्विलङ्घ्य सा ॥
सञ्जीविनीटीका (मल्लिनाथः) दिवमिति॥ हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः। इन्द्रो मरुत्वान्मघवा इत्यमरः (अमरकोशः १.१.५१ ) । दिवं स्वर्गमिव। भुवं भोक्ष्यते। भुजोऽनवने (अष्टाध्यायी १.३.३६ ) इत्यात्मनेपदम्। अतः प्रथमं सा सुदक्षिणा तथा मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्तविधे भूविकारे इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध। विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
दि वं रु त्वानि भोक्ष्य तेभु वं
दि वि श्रान्त थोहित्सु तः
तोऽभि ला षेप्र मं थावि धे
नो न्धान्य सान्विङ्घ्य सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.