३.६
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।
न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः ॥
सञ्जीविनीटीका (मल्लिनाथः) उपत्येति॥ दोहदं गर्भिणीमनोरथः। दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम् इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः? हि यस्मादस्य भूपतेस्त्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया? नेत्याह-अधिज्यधन्वन इति। न हि वीरपत्नीनामलभ्यां नाम किंचिदस्तीति भावः। अत्र वाग्भटः (अ.हृ.शा।१।५२)पादशोफो विदाहोऽन्ते श्रद्धा च विवधात्मिकाइति। एतञ्च पत्मीमनोरथपूरणाकरणे दृष्टदोषसंभवात्, न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम्(अ.हृ.शा.१।५३)-देयमप्यहितं तस्यै हिताय हितमल्पकम्। श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा॥ अन्यत्र च-दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् इति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
पेत्य सा दो दुः शी तां
दे व्रेश्य दाहृ तम्
हीष्ट स्यत्रिदि वेऽपि भू ते
भू ना साद्य धिज्यन्व नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.