३.४३
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥
सञ्जीविनीटीका (मल्लिनाथः) शतैरिति॥ रघुस्तमश्वहर्तारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरिभिर्हरिद्वर्णैः। हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः इति विश्वः। वाजिभिरश्वैश्च हरिमिन्द्रं विदित्वा। हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु इति विश्वः। एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निव। अवोचत् ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
तैस्त क्ष्णानि मे वृत्तिभि
र्ह रिंवि दि त्वारि भिश्च वाजि भिः
वो दे नंस्पृ शा घुः
स्व रे धी रेनिर्तन्नि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.