३.३९
ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः ।
धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम्। क्रियार्थोपपदस्य- (अष्टाध्यायी २.३.१४ ) इत्यादिना चतुर्थी। उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम्। अव्याहतस्वैरगतिमित्यर्थः। अपर्यावर्तयन्तोऽश्वमनुचरन्ति इत्यापस्तम्बस्मरणात्। तुरंगं धनुर्भृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन्। जहार किल। किल इत्यैतिह्ये ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
तः रं ते खाज्व ना
तु रं मु त्सृष्टर्ग लंपु नः
नुर्भृ ताग्रक्षि णां
हा क्रःकि गू विग्र हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.