३.३८
नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः ॥
सञ्जीविनीटीका (मल्लिनाथः) नियुज्येति॥ शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः। शतं वै तुल्या राजपुत्रा देवा आशापालाः इत्यादिश्रुत्या। राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरंगाणां रक्षणे नियुज्य। एकेन क्रतुनाऽपूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नमपगतविघ्नं यथा तथाऽऽप ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
नि युज्य तं होतु रंक्ष णे
नुर्ध रं रासु तै नुद्रु तम्
पूर्ण मे केक्र तू मः
तंक्र तू ना विघ्न मा सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.