३.३६
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥
सञ्जीविनीटीका (मल्लिनाथः) नरेन्द्रेति॥ गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी श्री राज्यलक्ष्मीः पद्माश्रया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात्। अपादानात्। अनन्तरं संनिहितम्। युवराज इति संज्ञास्य संजाता युवराजसंज्ञितम्। तारकादित्वातच्प्रत्ययः। आत्मनः पदं स्थानमास्पदम्। आस्पदं प्रतिष्ठायाम् (अष्टाध्यायी ६.१.१४६ ) इति निपातः। स रघुरित्यास्पदं तदास्पदम्। कमलाञ्चिरोत्पन्नवावतारमचिरोत्पन्नमुत्पलमिव। अंशेनागच्छत्। स्रियो हि यूनि रज्यन्त इति भावः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
रेन्द्र मू ला नान्त रं
दास्प दं श्रीर्यु रा संज्ञि तम्
च्छ दं शेगु णाभि लाषि णी
वा ता रं लादि वोत्प लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.